top of page
महामायाष्टकम् (पैङ्गनाडु गणपतिशास्त्रिकृतं) | Mahamaya ashtakam
महामायाष्टकम्
॥ (पैङ्गनाडु) गणप तिशास्त्रिकृतम् ॥
सत्स्वन्येष्वपि दैवतेषु बहुषु प्रायो जना भूतले
यामेकां जननीति सन्ततममी जल्पन्ति तादृग्विधा ।
भक्तस्तोमभयप्रणाशनचणा भव्याय दीव्यत्वसौ
देवी स्फोटविपाटनैकचतुरा माता महामायिका ॥ १॥
मातेत्याह्वय एव जल्पति महद् वात्सल्यमस्मासु ते
कारुण्ये तव शीतलेति यदिदं नामैव साक्षीयते ।
इत्थं वत्सलतादयानिधिरिति ख्याता त्वमस्मानिमान्
मातः कातरतां निर्वाय नितरामानन्दितानातनु ॥ २॥
प्रत्यक्षेतरवैभवैः किमितरैर्देवव्रजैस्तादृशैः
न…bottom of page
